मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् ९

संहिता

वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् ।
समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥

पदपाठः

वी॒तिऽहो॑त्रा । कृ॒तद्व॑सू॒ इति॑ कृ॒तत्ऽव॑सू । द॒श॒स्यन्ता॑ । अ॒मृता॑य । कम् ।
सम् । ऊधः॑ । रो॒म॒शम् । ह॒तः॒ । दे॒वेषु॑ । कृ॒णु॒तः॒ । दुवः॑ ॥

सायणभाष्यम्

वीतिहोत्रा वीतिहोत्रौ वीतिः प्रियकरो होत्रा यज्ञोययोस्तौ अनेन यज्ञेन तयोः सुखादिकं संभवति तादृशौ । यद्वा वीतिः कान्त्यर्थः होत्रेतिवाङ्माम् अस्मद्विषयों स्तुतिं दुरुतमिति पृथक् पृथक् देवैः काम्यमानस्तुती अतएव कं सुखप्रदं हवीरूपमन्नं दशस्यन्ता देवेभ्यः प्रयच्छतौ कृतद्वसू तकारोपज- नश्छान्दसः याचमानकृतधनौ पात्रेषूपयुक्तधनावित्यर्थः । एवंविधौ दंपती अमृताय अमरणाय सन्तानाभिवृद्धये रोमशं रोमवन्तं वृषणं ऊधः यो- निंच संहतः संयोजयतइति मैथुनमनूद्यते ततः सपुत्रादिकौ तौ देवेषु दुवः स्तुत्यन्नदानरुपां परिचर्यां कृणुतः कुरुतः पञ्चभिर्दन्पती अस्तूयेताम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९