मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् ११

संहिता

ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः ।
उ॒रुरध्वा॑ स्व॒स्तये॑ ॥

पदपाठः

आ । ए॒तु॒ । पू॒षा । र॒यिः । भगः॑ । स्व॒स्ति । स॒र्व॒ऽधात॑मः ।
उ॒रुः । अध्वा॑ । स्व॒स्तये॑ ॥

सायणभाष्यम्

रयिर्धनानां दाता भगोभजनीयः सर्वैः सर्वधातमः सर्वेषां धारयितृतमः सर्वेषांधनादिभिः पोषयितृतमः पूषा एतन्नामकोदेवः स्वस्ति क्षेमेण ऎतु अस्मान्प्रतिगच्छतु ततः मार्गरक्षके पूषण्यागतेसति उरुः विस्तीर्णः अध्वा मार्गः स्वस्तये अस्माकमविनाशाय भवतु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०