मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १३

संहिता

यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑ण॒ः सन्ति॑ गो॒पाः ।
सु॒गा ऋ॒तस्य॒ पन्था॑ः ॥

पदपाठः

यथा॑ । नः॒ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । सन्ति॑ । गो॒पाः ।
सु॒ऽगाः । ऋ॒तस्य॑ । पन्थाः॑ ॥

सायणभाष्यम्

मित्रः अर्यमा वरुणः एतेत्रयोदेवाः नोस्माकं गोपाः गोपायितारोयथासन्ति भवन्ति यैर्मार्गैःवयमेतैः पालयितव्याभवाम ते ऋतस्य सत्यभूतस्य प- न्थाः पन्थानः सुगाः एषां सुगमनाभवन्तु तैरागत्यास्मान् यज्ञमार्गेस्थापयन्त्वित्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०