मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १५

संहिता

म॒क्षू दे॒वव॑तो॒ रथ॒ः शूरो॑ वा पृ॒त्सु कासु॑ चित् ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

पदपाठः

म॒क्षु । दे॒वऽव॑तः । रथः॑ । शूरः॑ । वा॒ । पृ॒त्ऽसु । कासु॑ । चि॒त् ।
दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

सायणभाष्यम्

देववतः देवायष्टव्यतया यस्यसन्ति सदेववान् तस्य रथोदेवैर्दत्तः मक्षु शीघ्रं दुर्गमपि प्रविशति सर्वत्राप्रतिहतगतिरित्यर्थः । तत्रदृष्टान्तः-वाशब्दोत्रो- पमानवाची यथा शूरोयोद्धा कासु चित् पृत्सु पृतनासु तद्वत् योदेवानां इदवधारणे मनएवइयक्षति स्तुतिभिः पूजयितुमिच्छति यद्वा देवानां मनइ- यक्षति हविर्भिर्यष्टुमिच्छति सयजमानः अयज्वनःयागं अकुर्वतोजनान् अभिभुवत् स्वसामर्थ्येनाभिभवत्येव । इयक्षन्ति यक्षपूजायाम् यजदेवपूजा- दिषु उभयोरभ्यासस्यसम्प्रसारणं छान्दसम् । पूर्वस्य स्कोः संयोगाद्योरिति ककारलोपः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०