मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १७

संहिता

नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

पदपाठः

नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ ।
दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

सायणभाष्यम्

यो यजमानो देवानां मनोयष्टुमिच्छति तं नकिर्नकश्चिदपि नशत् स्वकीयेन कर्मणा नव्याप्नोति नशतिर्व्याप्तिकर्मा । किञ्च सयष्टा न प्रयोषत् स्वस्मा- त्स्थानान्नविभक्तः पृथक् कृतोनभवति । किञ्च नयोषति पुत्रादिभिर्धनादिभिश्च नविभक्तोभवति । युमिश्रणामिश्रणयोरित्यस्य उभयत्रलेट्यडागमः । शिष्टं व्याख्यातम् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०