मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १८

संहिता

अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

पदपाठः

अस॑त् । अत्र॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् ।
दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

सायणभाष्यम्

योयजमानो देवानां मनोयष्टुमिच्छति अत्रास्मिन्यजमाने सुवीर्यं शोभनवीर्योपेतं पुत्रादिकमसत् भवत्येव उतापिच आश्वश्व्यं आशुगमनाश्वसंघयुक्तं त्यत् तद्धनादिकं तस्मिन्यजमाने भवति देवानां मनोयोजनः हविर्भिर्यष्टुमिच्छति यद्वा पूजयितुमिच्छति सजनः अयज्वनः सर्वान् अभिभवत्येव ॥ १८ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्य धुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिता- भाष्ये षष्ठाष्टके द्वितीयोध्यायःसमाप्तः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०