मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २

संहिता

यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् ।
वधी॑दु॒ग्रो रि॒णन्न॒पः ॥

पदपाठः

यः । सृबि॑न्दम् । अन॑र्शनिम् । पिप्रु॑म् । दा॒सम् । अ॒ही॒शुव॑म् ।
वधी॑त् । उ॒ग्रः । रि॒णन् । अ॒पः ॥

सायणभाष्यम्

यइन्द्र उग्रःउद्रूर्णस्तेजस्वीवा सोऽपउदकानि रिणन् प्रेरयन् सृबिन्दनामकं शत्रुं अनर्शनिमनर्शनामकं पिप्रुं पिप्रुनामकंच दासंच अहीशुवंच शत्रुं वधी- त् अवधीज्जघान ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः