मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ३

संहिता

न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।
कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥

पदपाठः

नि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ ।
कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥

सायणभाष्यम्

हे इन्द्र बृहतोमहतोर्बुदस्य मेघस्य वर्ष्माणमुदकस्य वारकं विष्टपं स्थानं नितिर विध्य तत्प्रसिद्धं पौंस्यं व्रतं चकृषे कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः