मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ४

संहिता

प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।
हु॒वे सु॑शि॒प्रमू॒तये॑ ॥

पदपाठः

प्रति॑ । श्रु॒ताय॑ । वः॒ । धृ॒षत् । तूर्णा॑शम् । न । गि॒रेः । अधि॑ ।
हु॒वे । सु॒ऽशि॒प्रम् । ऊ॒तये॑ ॥

सायणभाष्यम्

हे स्तोतारोवोयुष्माकं श्रुताय स्तुतीनां श्रवणाय रक्षणायच धृषच्छत्रून् धृषन्तं सुशिप्रं सुहनुमिन्द्रं प्रति हुवे ह्वयामि । तूर्णाशं न यथा घर्मेभितप्तःपु- मान् तूर्णाशमुदकम् । तथा चयास्कःतूर्णाशमुदकंभवति तूर्णमश्नुतेति । गिरेरधि मेघं प्रति ह्वयति । पर्वतः गिरिरिति मेघनामसुपाठात् तद्वदित्यर्थः । किमर्थं ऊतये रक्षणाय ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः