मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ५

संहिता

स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्य॑ः ।
पुरं॒ न शू॑र दर्षसि ॥

पदपाठः

सः । गोः । अश्व॑स्य । वि । व्र॒जम् । म॒न्दा॒नः । सो॒म्येभ्यः॑ ।
पुर॑म् । न । शू॒र॒ । द॒र्ष॒सि॒ ॥

सायणभाष्यम्

हे शूरेन्द्र सः प्रसिद्धः त्वं मन्दानोमोदमानः गोरश्वस्यचव्रजं निवासस्थानं सोम्येभ्यः सोमार्हेभ्यः पुरंन शत्रूणां नगरमिव विदर्षसि विवृतद्वारं करो- षि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः