मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ६

संहिता

यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ ।
आ॒रादुप॑ स्व॒धा ग॑हि ॥

पदपाठः

यदि॑ । मे॒ । र॒रणः॑ । सु॒ते । उ॒क्थे । वा॒ । दध॑से । चनः॑ ।
आ॒रात् । उप॑ । स्व॒धा । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र मे मम सुते अभिषुते सोमे उक्थे स्तोत्रेवा यदि रारणः रमसे चनोन्नं यदिच दधसे मह्यं प्रयच्छसि तर्हि आराहूरात् स्वधान्नेनोपागहि उपाग- च्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः