मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ७

संहिता

व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः ।
त्वं नो॑ जिन्व सोमपाः ॥

पदपाठः

व॒यम् । घ॒ । ते॒ । अपि॑ । स्म॒सि॒ । स्तो॒तारः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
त्वम् । नः॒ । जि॒न्व॒ । सो॒म॒ऽपाः॒ ॥

सायणभाष्यम्

हे गिर्वणोगीर्भिर्वननीयेन्द्र ते तवापि वयं घ वयंखलु स्तोतारः स्मसि भवामः । हे सोमपाः सोमस्यपातरिन्द्र त्वं नोस्मान् जिन्व प्रीणयसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः