मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ८

संहिता

उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् ।
मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥

पदपाठः

उ॒त । नः॒ । पि॒तुम् । आ । भ॒र॒ । स॒म्ऽर॒रा॒णः । अवि॑ऽक्षितम् ।
मघ॑ऽवन् । भूरि॑ । ते॒ । वसु॑ ॥

सायणभाष्यम्

उत अपिच हे मघवन् संरराणः संरममाणस्त्वमविक्षितमविक्षीणम् पितुमन्नम् । पृक्षः पितुः रिति अन्ननामसुपाठात् । नोस्मभ्यमाभराहर ते तव वसु धनं भूरि अधिकं हि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः