मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ९

संहिता

उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विनः॑ ।
इळा॑भि॒ः सं र॑भेमहि ॥

पदपाठः

उ॒त । नः॒ । गोऽम॑तः । कृ॒धि॒ । हिर॑ण्यऽवतः । अ॒श्विनः॑ ।
इळा॑भिः । सम् । र॒भे॒म॒हि॒ ॥

सायणभाष्यम्

उतापिच हे इन्द्र नोस्मान् गोमतोगोमिनः कृधि कुरु अश्विनोश्वयुक्तान्कृधि हिरण्यवतोमेघवतश्च कृधि इळाभिरन्नैश्च संरभेमहि वयं संरब्धा- भवेम ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः