मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १०

संहिता

बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।
साधु॑ कृ॒ण्वन्त॒मव॑से ॥

पदपाठः

बृ॒बत्ऽउ॑क्थम् । ह॒वा॒म॒हे॒ । सृ॒प्रऽक॑रस्नम् । ऊ॒तये॑ ।
साधु॑ । कृ॒ण्वन्त॑म् । अव॑से ॥

सायणभाष्यम्

ऊतये लोकस्य रक्षणाय सृप्रकरस्नं प्रसृतबाहुम् । करस्नौ बाहू कर्मणां प्रस्नाताराविति यास्कवचनात् । अवसे लोकस्यपालनाय साधु कृण्वन्तं साधु- कुर्वन्तं बृबदुक्थं बृहदुक्थं इन्द्रं हवामहे ह्वयामः । तथाचयास्कः-बृबदुक्थोमहदुक्थोवक्तव्यमस्माउक्थमिति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः