मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ११

संहिता

यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।
ज॒रि॒तृभ्य॑ः पुरू॒वसु॑ः ॥

पदपाठः

यः । स॒म्ऽस्थे । चि॒त् । श॒तऽक्र॑तुः । आत् । ई॒म् । कृ॒णोति॑ । वृ॒त्र॒ऽहा ।
ज॒रि॒तृऽभ्यः॑ । पु॒रु॒ऽवसुः॑ ॥

सायणभाष्यम्

यः प्रसिद्धइन्द्रः संस्थे संग्रामे शतक्रतुर्बहुकर्माभवति अपिच आदनन्तरमीमिदं शत्रुवधादिकं कृणोति करोति चिदेव अयं इन्द्रोवृत्रहा शत्रूणां हन्ता- भवति । किञ्च जरितृभ्यः स्तोतृणामर्थे पुरुवसुः बहुधनोभवति न स्वार्थमित्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः