मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १२

संहिता

स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः ।
इन्द्रो॒ विश्वा॑भिरू॒तिभि॑ः ॥

पदपाठः

सः । नः॒ । श॒क्रः । चि॒त् । आ । श॒क॒त् । दान॑ऽवान् । अ॒न्त॒र॒ऽआ॒भ॒रः ।
इन्द्रः॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

शक्रः शक्तः सइन्द्रः नश्चिदस्मानप्याशकच्छक्तान्करोतु अपिचेन्द्रोदानवान्विश्वाभिः सर्वैरूतिभिःपालनैरन्तराभरः अन्तराहरःछिद्राणामापूरकश्छि- द्रापिधायित्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः