मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १४

संहिता

आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् ।
भूरे॒रीशा॑न॒मोज॑सा ॥

पदपाठः

आ॒ऽय॒न्तार॑म् । महि॑ । स्थि॒रम् । पृत॑नासु । श्र॒वः॒ऽजित॑म् ।
भूरेः॑ । ईशा॑नम् । ओज॑सा ॥

सायणभाष्यम्

आयन्तारमागन्तारं महि महान्तं पृतनासु संग्रामेषु स्थिरमचलं श्रवोजितं श्रवसाजतारं ओजसा बलेन भूरेर्बहोर्धनस्य ईशानमीश्वरमभिगाय ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः