मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १५

संहिता

नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम् ।
नकि॑र्व॒क्ता न दा॒दिति॑ ॥

पदपाठः

नकिः॑ । अ॒स्य॒ । शची॑नाम् । नि॒ऽय॒न्ता । सू॒नृता॑नाम् ।
नकिः॑ । व॒क्ता । न । दा॒त् । इति॑ ॥

सायणभाष्यम्

अस्येन्द्रस्य सूनृतानां शोभनानां शचीनां कर्मणां धीः शचीति कर्मनामसुपाठात् नकिर्नकश्चिन्नियन्ता नियामकः अयमिन्द्रोनदादिति नप्रयच्छ- तीति नकिर्वक्ता नकश्चिद्वदति । किंतु सर्वोपि जनोयं प्रदातेत्येव ब्रवीतीत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः