मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १६

संहिता

न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम् ।
न सोमो॑ अप्र॒ता प॑पे ॥

पदपाठः

न । नू॒नम् । ब्र॒ह्मणा॑म् । ऋ॒णम् । प्रा॒शू॒नाम् । अ॒स्ति॒ । सु॒न्व॒ताम् ।
न । सोमः॑ । अ॒प्र॒ता । प॒पे॒ ॥

सायणभाष्यम्

प्राशूनां ये सोमं प्राश्नुवन्ति ते प्राशवस्तेषां सोमं सुन्वतां ब्रह्मणां ब्राह्मणानां ऋणं देवऋणं ननूनमस्ति नखलुविद्यते । तथाचश्रूयते-एषवाअनृणोयः पुत्री यज्वाब्रह्मचारीति । किञ्च अप्रताऽविस्तीर्णधनेन सोमोनपपे न पीयते प्रभूतधनेनैव सोमः पीयतइत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः