मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १७

संहिता

पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।
ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥

पदपाठः

पन्ये॑ । इत् । उप॑ । गा॒य॒त॒ । पन्ये॑ । उ॒क्थानि॑ । शं॒स॒त॒ ।
ब्रह्म॑ । कृ॒णो॒त॒ । पन्ये॑ । इत् ॥

सायणभाष्यम्

हे उपगातारः पन्येइत् स्तुत्यएवेन्द्रे उपगायत उपगानं कुरुत । किच्च पन्ये स्तुत्यएवेन्द्रे उक्थानि स्तोत्राणि शंसत हे स्तोतारइतिशेषः । पन्यइत् स्तुत्यएवेन्द्रे ब्रह्मब्रह्माण्यन्नानि स्तोत्राणि कृणोत कुरुत ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः