मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १८

संहिता

पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।
इन्द्रो॒ यो यज्व॑नो वृ॒धः ॥

पदपाठः

पन्यः॑ । आ । द॒र्दि॒र॒त् । श॒ता । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।
इन्द्रः॑ । यः । यज्व॑नः । वृ॒धः ॥

सायणभाष्यम्

योवाजी बलवान् शता वीराणां शतानि सहस्रा सहस्राणि चादर्दिरदाभिमुख्येन दारयति सोयमिन्द्रः शत्रुभिरवृतः पन्यः स्तुत्योभवति यज्वनो वि- धिनेष्टवतो यजमानस्य वृधोवर्धयिताच भवति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः