मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १९

संहिता

वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ ।
इन्द्र॒ पिब॑ सु॒ताना॑म् ॥

पदपाठः

वि । सु । च॒र॒ । स्व॒धाः । अनु॑ । कृ॒ष्टी॒नाम् । अनु॑ । आ॒ऽहुवः॑ ।
इन्द्र॑ । पिब॑ । सु॒ताना॑म् ॥

सायणभाष्यम्

हे इन्द्र आहुवः आह्वातव्यस्त्वं कृष्टानां मनुष्याणां स्वधाः हवींष्यनु सु सुष्ठु विचर । द्वितीयोनुपूरणः । सुतानामभिषुतान् सोमांश्च पिब ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः