मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २२

संहिता

इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑ ।
धेना॑ इन्द्राव॒चाक॑शत् ॥

पदपाठः

इ॒हि । ति॒स्रः । प॒रा॒ऽवतः॑ । इ॒हि । पञ्च॑ । जना॑न् । अति॑ ।
धेनाः॑ । इ॒न्द्र॒ । अ॒व॒ऽचाक॑शत् ॥

सायणभाष्यम्

हे इन्द्र धेनाः अस्मदीयाः स्तुतीः अवचाकशत् यःअपश्यत् सत्वं परावतोदूरात् आरे परावतइति दूरनामसुपाठात् तिस्रः अग्रपृष्ठपार्श्वदिशः इहि ग- च्छ अनेनाग्रतः पृष्ठतः पार्श्वतश्चेन्द्रस्यागमनमाशास्ते । अपिच जनान्मनुष्यान् अतीहि अतिगच्छ । यद्वा गन्धर्वाः पितरोदेवा असुरारक्षांसिच पञ्चजनास्तानतीहीत्यर्थः । तथाचयास्कः-गन्धर्वाः पितरोदेवा असुरा रक्षांसीत्येके चत्वारोवर्णा निषादःपच्चमइत्यौपमन्यवइति ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः