मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २३

संहिता

सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिरः॑ ।
नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥

पदपाठः

सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । आ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ ।
नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥

सायणभाष्यम्

हे इन्द्र सूर्योयथा रश्मिं रश्मीन्किरणानश्वप्रग्रहान्वा विसृजति तथा मत्द्यं धनं विसृज । अपिच मे मदीयागिरः स्तुतयः सध्र्यक् सह त्वा त्वामाय- च्छन्तु निम्रमापोन यथा निम्रंदेशमापः सह परिगृह्णन्ति तद्वदित्यर्थः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः