मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २५

संहिता

य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धूँ॑र॒वासृ॑जत् ।
यो गोषु॑ प॒क्वं धा॒रय॑त् ॥

पदपाठः

यः । उ॒द्नः । फ॒लि॒ऽगम् । भि॒नत् । न्य॑क् । सिन्धू॑न् । अ॒व॒ऽअसृ॑जत् ।
यः । गोषु॑ । प॒क्वम् । धा॒रय॑त् ॥

सायणभाष्यम्

यउद्रःउदकार्थं फलिगं मेघं रैवतः फलिगइति मेघनामसुपाठात् भिनत् अभिनत् सिन्धूनपश्चान्तरिक्षात् न्यगर्वागवासृजत् । यश्च गोषु पक्कं पयोधा- रयदधारयत् सइन्द्रइत्यर्थः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः