मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् २८

संहिता

यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः ।
इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥

पदपाठः

यः । विश्वा॑नि । अ॒भि । व्र॒ता । सोम॑स्य । मदे॑ । अन्ध॑सः ।
इन्द्रः॑ । दे॒वेषु॑ । चेत॑ति ॥

सायणभाष्यम्

अन्धसोद्यमानस्य सोमस्य मदे संजाते विश्वानि सर्वाणि व्रता व्रतानि कर्माणि यइन्द्रो देवेष्वभिचेतति ज्ञापयति तस्माइंद्राय देवत्तं ब्रह्मगायतेत्यर्थः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः