व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।
प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः ।
प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥
हे वृत्रहन् त्वा त्वां वयंघ वयंखलु सुतवन्तः सोममभिषुतवन्तः आपोन आपइव प्रवणमभिगच्छामः पवित्रस्य सोमानां प्रस्रवणेषु वृक्तबर्हिषस्तीर्ण- बर्हिषः स्तोतारश्च त्वां पर्यासत पर्युपासते ॥ १ ॥