मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् २

संहिता

स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ ।
क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥

पदपाठः

स्वर॑न्ति । त्वा॒ । सु॒ते । नरः॑ । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिनः॑ ।
क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः॑ । आ । ग॒मः॒ । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑गः ॥

सायणभाष्यम्

हे वसो वासयितरिन्द्र त्वा त्वां सुतेभिषुते सोमे निरेके निर्गमने अक्थिनः नरोनेतारःस्वरन्ति शब्दायन्ते । अपि चेन्द्रः सुतं सोमं प्रति तृषाणः तृष्यन् स्वद्धीव स्वभूतशब्दइव वंसगो वननीयगमनोवृषभः शब्दं कुर्वन्कदा ओकः स्थानमागमः आगमत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः