मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ३

संहिता

कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् ।
पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥

पदपाठः

कण्वे॑भिः । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् ।
पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे धृष्णो धर्षकेन्द्र कण्वेभिः कण्वानुद्दिश्य विभक्तिव्यत्ययः सहस्रिणं सहस्रसंख्याकं वाजमादर्षि देहि । हे मघवन् धनवन् विचर्षणे विद्रष्टरिन्द्र धृषत् धृष्टं पिशङ्गरूपं गोमन्तंच वाजं मक्षु शीघ्रमीमहे याचामहे त्वामितिशेषः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः