मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ४

संहिता

पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा॑य मेध्यातिथे ।
यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा॑ व॒ज्री रथो॑ हिर॒ण्ययः॑ ॥

पदपाठः

पा॒हि । गाय॑ । अन्ध॑सः । मदे॑ । इन्द्रा॑य । मे॒ध्य॒ऽअ॒ति॒थे॒ ।
यः । सम्ऽमि॑श्लः । हर्योः॑ । यः । सु॒ते । सचा॑ । व॒ज्री । रथः॑ । हि॒र॒ण्ययः॑ ॥

सायणभाष्यम्

हे मेध्यातिथे पाहि सोमं पिब अन्धसः पीतस्य सोमस्य मदे तस्माइन्द्राय गाय स्तोत्रंचपठ । यः इन्द्रोहर्योरश्वयोः संमिश्लःस्वरथेसंमिश्लयिता यश्च सुतेसोमे सचा सहायः यइन्द्रोवज्री यस्य रथोहिरण्ययोहिरण्मयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः