मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ५

संहिता

यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे ।
य आ॑क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा॑रि॒तः ॥

पदपाठः

यः । सु॒ऽस॒व्यः । सु॒ऽदक्षि॑णः । इ॒नः । यः । सु॒ऽक्रतुः॑ । गृ॒णे ।
यः । आ॒ऽक॒रः । स॒हस्रा॑ । यः । श॒तऽम॑घः । इन्द्रः॑ । यः । पूः॒ऽभित् । आ॒रि॒तः ॥

सायणभाष्यम्

यः सुषव्यः शोभनसव्यहस्तः यश्च सुदक्षिणः यश्चेनईश्वरः । नियुत्वान् इनइतीश्वरनामसुपाठात् । यश्चापि सुक्रतुः सुप्रज्ञः सहस्रा सहस्राणां बहूनां यश्चाकरः कर्ता यश्चापि रातमघः बहुधनः यश्च पूर्भित् पुरां भेत्ता यश्चारितः प्रत्यृतःस्तोमान् । तथाचयास्कः-यआरितः कर्मणिकर्मणिस्थिरः प्रत्यृतःस्तोमानिति । अस्माभिः स्तूयतेच ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः