मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ६

संहिता

यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः ।
विभू॑तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ॥

पदपाठः

यः । धृ॒षि॒तः । यः । अवृ॑तः । यः । अस्ति॑ । श्मश्रु॑षु । श्रि॒तः ।
विभू॑तऽद्युम्नः । च्यव॑नः । पु॒रु॒ऽस्तु॒तः । क्रत्वा॑ । गौःऽइ॑व । शा॒कि॒नः ॥

सायणभाष्यम्

योधृषितः शत्रूणांधर्षयिता यश्चावृतः शत्रुभिरावृतः यश्चापि श्मश्रुषु युद्धेषु । श्रवःश्रयंत्यस्मिन्निति व्युत्पत्तेः श्मश्रु युद्धमितिवृद्धावदन्ति । श्रितोस्ति भवति यश्चापि विभूतद्युम्नः प्र भूतधनः यश्च च्यवनः सोमानां च्यावयिता यश्चापि पुरुष्टुतो बहुस्तुतः सइन्द्रः क्रत्वा कर्मणः शाकिनः शक्तस्य यज- मानस्य गौरिव यथा गौः पयसोदोग्ध्री तथा कामानां दोग्धाभवति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः