मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ८

संहिता

दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।
नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ॥

पदपाठः

दा॒ना । मृ॒गः । न । वा॒र॒णः । पु॒रु॒ऽत्रा । च॒रथ॑म् । द॒धे॒ ।
नकिः॑ । त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज॑सा ॥

सायणभाष्यम्

मृगः शत्रूणामन्वेषको वारणोगजो दानामदजलानीव पुरुत्रा बहुषु यज्ञेषु चरथं चरणशीलं मदं दधे इन्द्रोधारयति । अथप्रत्यक्षस्तुतिः हे इन्द्र त्वा त्वां नकिर्नियमत् नकश्चिन्नियच्छति सुतेसोमे आगमः आगच्छ । महान् हि त्वमोजसा बलेन सर्वतश्चरसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः