मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् ९

संहिता

य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः ।
यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥

पदपाठः

यः । उ॒ग्रः । सन् । अनि॑ऽस्तृतः । स्थि॒रः । रणा॑य । संस्कृ॑तः ।
यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शृ॒णव॑त् । हव॑म् । न । इन्द्रः॑ । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥

सायणभाष्यम्

यउग्रः उदूर्णः ओजस्वीवा सन् भवन् अनिष्टृतः शत्रुभिरनिस्तीर्णः स्थिरोचलोरणाय युद्धाय संस्कृतः शस्त्रैरलंकृतः सोमैर्वासंस्कृतः सइन्द्रोमघवा ध- नवान् यदिस्तोतुर्हवमाह्वानं श्रृणवच्छृणोति तर्त्द्यन्यत्र नयोषति नगच्छति किंतु आगमत् तत्रैवागच्छति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः