मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् १२

संहिता

वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र ।
वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥

पदपाठः

वृषा॑ । सोता॑ । सु॒नो॒तु॒ । ते॒ । वृष॑न् । ऋ॒जी॒पि॒न् । आ । भ॒र॒ ।
वृषा॑ । द॒ध॒न्वे॒ । वृष॑णम् । न॒दीषु॑ । आ । तुभ्य॑म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥

सायणभाष्यम्

हे वृषन् वर्षितरिन्द्र ते तव सोताभिषवकर्ता वृषा वर्षितासन् सुतोतु सोममभिषुणोतु । हे ऋजीषिन् ऋजुगमनेन्द्र आभर धनमस्मभ्यमाहर हरीणामश्वानां आ आभिमुख्येन हेस्थातरिन्द्र तुभ्यं नदी षूदकेषु वृषणं वर्षितारं सोमं वृषा वर्षिता दधन्वे धारितवानभिषवार्थम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः