मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् १४

संहिता

वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ ।
ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥

पदपाठः

वह॑न्तु । त्वा॒ । र॒थे॒ऽस्थाम् । आ । हर॑यः । र॒थ॒ऽयुजः॑ ।
ति॒रः । चि॒त् । अ॒र्यम् । सव॑नानि । वृ॒त्र॒ऽह॒न् । अ॒न्येषा॑म् । या । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥

सायणभाष्यम्

हे वृत्रहन् शतक्रतो बहुप्रज्ञ रथेष्ठां रथस्यमर्यमीश्वरं त्वा त्वां रथयुजो रथेयुक्ता हरयोश्वाः अन्येषां या यानि सवनानि सन्ति तानि तिरश्चित् तिरस्कुर्वन्तः सवनान्यस्मदीयानि सवनान्यावहन्तु प्रापयन्तु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः