मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् १५

संहिता

अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं॑ धिष्व महामह ।
अ॒स्माकं॑ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा॑य द्युक्ष सोमपाः ॥

पदपाठः

अ॒स्माक॑म् । अ॒द्य । अन्त॑मम् । स्तोम॑म् । धि॒ष्व॒ । म॒हा॒ऽम॒ह॒ ।
अ॒स्माक॑म् । ते॒ । सव॑ना । स॒न्तु॒ । शम्ऽत॑मा । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ ॥

सायणभाष्यम्

हे महामह महतामपि महान् महापूज्यवा अद्यान्तममन्तिकतममस्माकं मेध्यातिथीनां स्तोमं धिष्व धारय । हे द्युक्ष दीप्त सोमपाः सोमस्य पातरिन्द्र ते तव मदाय मदार्थं सवना सवनान्यस्माकं शन्तमा शन्तमानि सुखतमानि सन्तु भवन्तु ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः