मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् १७

संहिता

इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ ।
उ॒तो अह॒ क्रतुं॑ र॒घुम् ॥

पदपाठः

इन्द्रः॑ । चि॒त् । घ॒ । तत् । अ॒ब्र॒वी॒त् । स्त्रि॒याः । अ॒शा॒स्यम् । मनः॑ ।
उ॒तो इति॑ । अह॑ । क्रतु॑म् । र॒घुम् ॥

सायणभाष्यम्

योमेध्यामिथेर्धनप्रदाता प्लायोगिरासंगः सपुमान् भूत्वा रुयभवत् तदा यइन्द्रउवाच तदिदमाह । तथाचाहुः-प्लायोगिश्चासंगोयः स्त्रीभूत्वा पुमान- भूत् समेध्यातिथये दानं दत्वेति । इन्द्रश्चित् घ इन्द्रः खलु तदब्रवीत् स्त्रिया मनश्चित्तं अशास्यं पुरुषेणाशिष्यं शासितुमशक्यं प्रबलत्वादिति । उतो अपि स्त्रियाः क्रतुं प्रज्ञां रघुं लघुमह आह ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०