मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३३, ऋक् १८

संहिता

सप्ती॑ चिद्घा मद॒च्युता॑ मिथु॒ना व॑हतो॒ रथ॑म् ।
ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ॥

पदपाठः

सप्ती॒ इति॑ । चि॒त् । घ॒ । म॒द॒ऽच्युता॑ । मि॒थु॒ना । व॒ह॒तः॒ । रथ॑म् ।
ए॒व । इत् । धूः । वृष्णः॑ । उत्ऽत॑रा ॥

सायणभाष्यम्

सप्ती चिद्धेन्द्रस्याश्वावपि खलु मदच्युता सोमं प्रतिगन्तारौ इन्द्रस्यैव रथं मिथुनौ वहतः एवेदेवमेव वृष्णइन्द्रस्य रथः धूरुत्तराश्वयोरुत्तराभवति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०