मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् १

संहिता

एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

आ । इ॒न्द्र॒ । या॒हि॒ । हरि॑ऽभिः । उप॑ । कण्व॑स्य । सु॒ऽस्तु॒तिम् ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र कण्वस्य सुष्टुतिं शोभनांस्तुतिं हरिभिरश्वैरुपायाहि आगच्छ दिवोद्युलोकं द्वितीयार्थेषष्ठी अमुष्यामुष्मिन्निन्द्रे शासतः शासति विभक्तिव्यत्य- यः तत्र वयं सुखमास्महे दिवावसो दीप्तहविष्केन्द्र दिवं स्वर्गं यय यूयं गच्छत बहुवचनं पूजार्थम् । यद्वा हे दिवावसो दिवोद्युनामकं अमुष्यामं लोकं शासतः शासनंकुर्वन्तोयूयं दिवं स्वर्गं यय गच्छत अत्रबहुवचनं पूजार्थमित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११