मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् २

संहिता

आ त्वा॒ ग्रावा॒ वद॑न्नि॒ह सो॒मी घोषे॑ण यच्छतु ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

आ । त्वा॒ । ग्रावा॑ । वद॑न् । इ॒ह । सो॒मी । घोषे॑ण । य॒च्छ॒तु॒ ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वामिहयज्ञे ग्रावा सोमाभिषवपाषाणः सोमी सोमवान् वदन् शब्दंकुर्वन् घोषेण ध्वनिनासह आयच्छतु । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११