दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म् ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
दधा॑मि । ते॒ । सु॒ताना॑म् । वृष्णे॑ । न । पू॒र्व॒ऽपाय्य॑म् ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥
हे इन्द्र ते तुभ्यं सुतानां द्वितीयार्थेषष्ठी सुतान् सोमान् दधामि प्रयच्छामि । वृष्णो न यथा वायवे पूर्वपाय्यं यज्ञमुखे पेयं प्रयच्छन्ति तद्वदहं प्रय- च्छामीत्यर्थः । सिद्धमन्यत् ॥ ५ ॥