मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् ६

संहिता

स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

स्मत्ऽपु॑रन्धिः । नः॒ । आ । ग॒हि॒ । वि॒श्वतः॑ऽधीः । नः॒ । ऊ॒तये॑ ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र स्मत् पुरन्धिः स्वर्गकुटुंबी नः अस्मान् आगहि । तथा विश्वतः धीः सर्वतोजगतोधारकः त्वं नः अस्माकं ऊतये रक्षणाय आगहि आगच्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२