मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् ७

संहिता

आ नो॑ याहि महेमते॒ सह॑स्रोते॒ शता॑मघ ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

आ । नः॒ । या॒हि॒ । म॒हे॒ऽम॒ते॒ । सह॑स्रऽऊते । शत॑ऽमघ ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे महेमते महाबुद्धे सहस्रोते सहस्ररक्षण शतामघ बहुधनेन्द्र त्वं नोस्मानायात्द्यागच्छ । सिद्धमन्यत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२