मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् १२

संहिता

सरू॑पै॒रा सु नो॑ गहि॒ सम्भृ॑तै॒ः सम्भृ॑ताश्वः ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

सऽरू॑पैः । आ । सु । नः॒ । ग॒हि॒ । सम्ऽभृ॑तैः । सम्भृ॑तऽअश्वः ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र संभृताश्वः पुष्टाश्वस्त्वं सुसंभृतैः सरूपैः समानरूपैरश्वैः नोस्मानागह्यागच्छ । सिद्धमन्यत् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३