मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् १३

संहिता

आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टपः॑ ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

आ । या॒हि॒ । पर्व॑तेभ्यः । स॒मु॒द्रस्य । अधि॑ । वि॒ष्टपः॑ ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र त्वं पर्वतेभ्यः आयाह्यागच्छ समुद्रस्यान्तरिक्षस्य विष्टपोविष्टपाच्चाध्यायाहीत्यर्थः । सिद्धमन्यत् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३