मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् १५

संहिता

आ नः॑ सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

आ । नः॒ । स॒ह॒स्र॒ऽशः । भ॒र॒ । अ॒युता॑नि । श॒तानि॑ । च॒ ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र नोस्मभ्यं सहस्रशः सहस्रधा अयुतानि शतानिच अभीष्टानि वस्तून्याभराहर । सिद्धमन्यत् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३