मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् १६

संहिता

आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः ।
ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम् ॥

पदपाठः

आ । यत् । इन्द्रः॑ । च॒ । दद्व॑हे॒ इति॑ । स॒हस्र॑म् । वसु॑ऽरोचिषः ।
ओजि॑ष्ठम् । अश्व्य॑म् । प॒शुम् ॥

सायणभाष्यम्

वसुरोचिषो वसुदीप्तयो वयं सहस्रं सहस्रसंख्याकानामस्माकं नेता इन्द्रश्च ओजिष्ठं बलवत्तरमश्व्यमश्वात्मकं पशुंच यद्यदा आदद्वहे पारावतादादद्महे उत्तरत्रसंबन्धः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३