मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् १८

संहिता

पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ ।
तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥

पदपाठः

पारा॑वतस्य । रा॒तिषु॑ । द्र॒वत्ऽच॑क्रेषु । आ॒शुषु॑ ।
तिष्ठ॑म् । वन॑स्य । मध्ये॑ । आ ॥

सायणभाष्यम्

तेष्वश्वेषु पारावतस्य रातिषु देयेषु द्रवच्चक्रेषु द्रवद्रथचक्रेष्वाशुष्वश्वेषु । तार्क्ष्यआशुरित्यश्वनामसुपाठात् । प्रतिगृहीतेषु सत्सु वनस्यमध्ये आति- ष्ठमिति वसुरोचिषाम् सहस्रंवदन्ति ॥ १८ ॥

अग्निनेन्द्रेणेति चतुर्विंशत्यृचं पञ्चमंसूक्तं श्यावाश्वस्यात्रेयस्यार्षम् । अत्रानुक्रमणिकाअग्निनाचतुर्विंशतिः श्यावाश्वआश्विनमुपरिष्टाज्ज्योतिषं पंक्तिमहाबृहती पंक्त्यन्तमिति । उपरिष्टात् ज्योतिश्छन्दः । चतुर्थपादस्याष्टाक्षरत्वात् यतोष्टकस्ततोज्योतिरिति तल्लक्षणम् । द्वाविंशीपंक्तिः त्रयोविंशीमहाबृहती चत्वारोष्टकाजागतश्च महाबृहतीत्युक्तलक्षणोपेतत्वात् । चतुर्विशीपक्तिः । अश्विनौदेवता अश्विनोर्यामे होतुरतिरिक्तोक्थ्ये अग्निनेन्द्रेणेत्येतत्सूक्तम् सूत्रितञ्च-अग्निनेन्द्रेणाभात्यग्निरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३